प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ||
भक्तावासं स्मरेत्रित्यमायुः कामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुंड च एकदंतं द्वितीयकम् ।।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ||२||
लंबोदर पंचमं च षष्ठं विकटमेव च ॥
सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टमम् ||३||
नवमं भालचंद्रं च दशमं तु विनायकम् ||
एकादशं गणपतिं द्वादशं तू गजाननम् ||४||
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नर: ॥
न च विघ्नभयं तस्यं सर्वसिद्धिकरं प्रभो ।।५।।
विद्यार्थी लाभते विद्यां धनार्थी लाभते धनम् ॥
पुत्रार्थी लाभते पुत्रान्मोक्षार्थी लाभते गतिम् ॥६॥
जपेद्रणपतिस्तोत्रं षड्भिर्मासै फलं लाभेत् ॥
संवत्सरेण सिद्धी च लाभते नात्र संशयः ॥७॥
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत ॥
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
॥इति संकष्टनाशन नाम श्री गणपतिस्तोत्रं संपूर्णम् ॥
No comments:
Post a Comment